|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.29. अध्यायः 029
Mahabharata - Shanti Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति नारदपर्वतोपाख्यानकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-29-0x(5390)(65895)
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत्।
पर्वतेन किमथे वा दत्तस्तेन ममार च॥ 12-29-1(65896)
यदा वर्षसहस्रायुस्तदा भवति मानवः।
कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः॥ 12-29-2(65897)
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत्।
कथं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम्॥ 12-29-3(65898)
श्रीकृष्ण उवाच। 12-29-4x(5391)
अत्र ते वर्णयिष्यामि यथावृत्तं जनेश्वर।
नारदः पर्वतश्चैव द्वावृवी लोकसत्तमौ॥ 12-29-4(65899)
मातुलो भागिनेयश्च देवलोकादिहागतौ।
विहर्तुकामौ संप्रीत्या मानुषेषु पुरा विभो॥ 12-29-5(65900)
हविःपवित्रभोज्येन देवभोज्येन चैव हि।
नारदो मातुलस्तत्र भागिनेयश्च पर्वतः॥ 12-29-6(65901)
तावुभौ तपसोपेताववनीतलचारिणौ।
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम्॥ 12-29-7(65902)
प्रीतिमन्तौ मुदा युक्तौ समयं चैव चक्रतुः।
यो भवेद्धृदि संकल्पः शुभो वा यदि वाऽशुभः॥ 12-29-8(65903)
अन्योन्यस्य च आख्येयो मृषा शापोऽन्यथा भवेत्।
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ॥ 12-29-9(65904)
सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः।
आवां भवति वत्स्यावः कंचित्कालं हिताय ते॥ 12-29-10(65905)
यथावत्पृथिवीपाल आवयोः प्रगुणीभव।
तथेति कृत्वा राजा तौ सत्कृत्योपचचार ह॥ 12-29-11(65906)
ततः कदाचित्तौ राजा महात्मानौ तपोधनौ।
अब्रवीत्परमप्रीतः सुतेयं देवरूपिणी॥ 12-29-12(65907)
एकैव मम कन्यैषा युवां परिचरिष्यति।
दर्शनीयानवद्याङ्गी शीलवृत्तसमाहिता।
सुकुमारी कुमारी च पझकिञ्जल्कसुप्रभा॥ 12-29-13(65908)
परमं सौम्यमित्युक्तं ताभ्यां राजा शशास ताम्।
कन्ये विप्रावुपचर देववत्पितृवच्च ह॥ 12-29-14(65909)
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी।
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह॥ 12-29-15(65910)
तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च।
नारदं हृच्छयस्तूर्णं सहसैवाभ्यपद्यत॥ 12-29-16(65911)
ववृधे हि ततस्तस्य हृदि कामो महात्मनः।
यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः॥ 12-29-17(65912)
न च तं भागिनेयाय पर्वताय महात्मने।
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित्॥ 12-29-18(65913)
तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबोध तम्।
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम्॥ 12-29-19(65914)
कृत्वा समयमव्यग्रो भवान्वै सहितो मया।
यो भवेद्धृदि संकल्पः शुभो वा यदि वाऽशुभः॥ 12-29-20(65915)
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम्।
भवता वचनं ब्रह्मंस्तस्मादेष शपाम्यहम्॥ 12-29-21(65916)
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा।
सुकुमार्यां कुमार्यां ते तस्मान्नैष क्षमाम्यहम्॥ 12-29-22(65917)
ब्रह्मचारी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन्।
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः॥ 12-29-23(65918)
शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे॥ 12-29-24(65919)
सुकुमारी च ते भार्या भविष्यति न संशयः।
वानरत्वं च ते कन्या विवाहात्प्रभृति प्रभो।
संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम्॥ 12-29-25(65920)
स तद्वाक्यं तु विज्ञाय नारदः पर्वतं तथा।
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः॥ 12-29-26(65921)
तपसा ब्रह्मचर्येण सत्येन च दमेन च।
युक्तोऽपि नित्यधर्मश्च न वै स्वर्गमवाप्स्यसि॥ 12-29-27(65922)
तौ तु शावा भृशं क्रुद्धौ परस्परममर्षणौ।
प्रतिजग्मतुहृन्योन्यं क्रुद्धाविव गजोत्तमौ॥ 12-29-28(65923)
पर्वतः पृथिवीं कृत्स्नां विचचार महामतिः।
पूज्यमानो यथान्यांयं तेजसा स्वेन भारत॥ 12-29-29(65924)
अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम्।
धर्मेण विप्रप्रवरः सुकुमारीमनिन्दिताम्॥ 12-29-30(65925)
सा तु कन्या यथाशापं नारदं तं ददर्श ह।
पाणिग्रहणमन्त्राणां नियोगादेव नारदम्॥ 12-29-31(65926)
सुकुमारी च देवर्षि वानरप्रतिमाननम्।
नैवावमन्यत तदा प्रीतिमत्येव चाभवत्॥ 12-29-32(65927)
उपतस्थे च भर्तारं न चान्यं मनसाऽप्यगात्।
देवं मुनीं वा यक्षं वा पतित्वे पतिवत्सला॥ 12-29-33(65928)
ततः कदाचिद्भगवान्पर्वतोऽनुचचार ह।
वनं विरहितं किंचित्तत्रापश्यत्स नारदम्॥ 12-29-34(65929)
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा।
भवान्प्रसादं कुरुतात्स्वर्गादेशाय ये प्रभो॥ 12-29-35(65930)
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तथा।
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम्॥ 12-29-36(65931)
त्वयाऽहं प्रथमं शप्तो वानरस्त्वं भविष्यसि।
इत्युक्तेन मया पश्चाच्छप्तस्तवमपि मत्सरात्॥ 12-29-37(65932)
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह।
तव नैतद्विसदृशं पुत्रस्थाने हि मे भवान्॥ 12-29-38(65933)
निवर्तयेतां तौ शापावन्योन्येन तदा मुनी॥ 12-29-39(65934)
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्।
सुकुमारी प्रदुद्राव परपुंसविशङ्कया॥ 12-29-40(65935)
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम्।
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा॥ 12-29-41(65936)
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः।
तवैवाभेद्यहृदयो मा ते भूदत्र संशयः॥ 12-29-42(65937)
सानुनीता बहुविधं पर्वतेन महात्मना।
शापदोषं च तं भर्तुः श्रुत्वा प्रकृतिमागता।
पर्वतोऽथ ययौ स्वर्गं नारदोऽभ्यगमद्गृहान्॥ 12-29-43(65938)
वासुदेव उवाच। 12-29-44x(5392)
प्रत्यक्षकर्ता सर्वस्य नारदो भगवानृषिः।
एष वक्ष्यति ते पृष्टो यथावृत्तं नरोत्तम॥ ॥ 12-29-44(65939)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनत्रिंशोऽध्यायः॥ 29॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-29-6 हविः पवित्रभोज्येन शाल्यन्नेन देवभोज्येन घृतेन ताभ्यां विहर्तुकामाविति पूर्वेण संबन्धः॥ 12-29-11 प्रगुणीभवानुकूलो भव॥ 12-29-13 सुकुमारी नाम्रा॥ 12-29-14 सौम्यमुत्तमम्॥ 12-29-20 समयं कृत्वा भवानवसदिति शेषः॥ 12-29-22 प्रवर्तन्तं प्रवर्तमानम्। ते त्वाम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|